|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.41. अध्यायः 041
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरेण ज्ञातिप्रभृतीनामौर्ध्वदैहिककरणपूर्वकं तदीयादीनां परिपालनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-41-0x(5425)(66349)
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि।
श्राद्धानि कारयामास तेषां पृथगुदारधीः॥ 12-41-1(66350)
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्।
सर्वकामगुणोपेतमन्नं गाश्च धनानि च।
रत्नानि च विचित्राणि महार्हाणि महायशाः॥ 12-41-2(66351)
युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः।
धृष्टद्युम्नाभिमन्युभ्यां हेडिम्बस्य च रक्षसः॥ 12-41-3(66352)
विराटप्रभृतीनां च सुहृदामुपकारिणाम्।
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ॥ 12-41-4(66353)
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्।
धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत्॥ 12-41-5(66354)
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः।
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम्॥ 12-41-6(66355)
सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः।
सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम्॥ 12-41-7(66356)
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्।
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन्॥ 12-41-8(66357)
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा।
सर्वांश्च कौरवान्मान्यान्भृत्यांश्च समपूजयत्॥ 12-41-9(66358)
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः॥
सर्वास्ताः कौरवो राजा संपूज्यापालायद्धृणी॥ 12-41-10(66359)
दीनान्धकृपणानां च गृहाच्छादनभोजनैः।
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः॥ 12-41-11(66360)
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु।
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः॥ ॥ 12-41-12(66361)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकचत्वारिंशोऽध्यायः॥ 41॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-41-10 संपूज्यापालयत्प्रजा इति ड.थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|